ਨਵਗ੍ਰਹਿ ਪੀੜਾਹਰ ਸਤੋਤ੍ਰਮ੍ — Complete Lyrics
नवग्रह पीडाहर स्तोत्रम्
Sanskrit text with English transliteration and translation
ग्रहाणामादिरादित्यो लोकरक्षणकारकः ।
विषमस्थानसंभूतां पीडां हरतु मे रविः ॥ १॥
रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः ।
विषमस्थानसंभूतां पीडां हरतु मे विधुः ॥ २॥
भूमिपुत्रो महातेजा जगतां भयकृत् सदा ।
वृष्टिकृद्वृष्टिहर्ता च पीडां हरतु मे कुजः ॥ ३॥
उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः ।
सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः ॥ ४॥
देवमन्त्री विशालाक्षः सदा लोकहिते रतः ।
अनेकशिष्यसम्पूर्णः पीडां हरतु मे गुरुः ॥ ५॥
दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः ।
प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः ॥ ६॥
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥ ७॥
महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः ।
अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे तमः ॥ ८॥
अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः ।
उत्पातरूपो जगतां पीडां हरतु मे शिखी ॥ ९॥
॥ इति नवग्रहपीडाहरस्तोत्रं सम्पूर्णम् ॥
grahāṇāmādirādityo lokarakṣaṇakārakaḥ |
viṣamasthānasaṃbhūtāṃ pīḍāṃ haratu me raviḥ || 1||
rohiṇīśaḥ sudhāmūrtiḥ sudhāgātraḥ sudhāśanaḥ |
viṣamasthānasaṃbhūtāṃ pīḍāṃ haratu me vidhuḥ || 2||
bhūmiputro mahātejā jagatāṃ bhayakṛt sadā |
vṛṣṭikṛdvṛṣṭihartā ca pīḍāṃ haratu me kujaḥ || 3||
utpātarūpo jagatāṃ candraputro mahādyutiḥ |
sūryapriyakaro vidvān pīḍāṃ haratu me budhaḥ || 4||
devamantrī viśālākṣaḥ sadā lokahite rataḥ |
anekaśiṣyasampūrṇaḥ pīḍāṃ haratu me guruḥ || 5||
daityamantrī gurusteṣāṃ prāṇadaśca mahāmatiḥ |
prabhustārāgrahāṇāṃ ca pīḍāṃ haratu me bhṛguḥ || 6||
sūryaputro dīrghadeho viśālākṣaḥ śivapriyaḥ |
mandacāraḥ prasannātmā pīḍāṃ haratu me śaniḥ || 7||
mahāśirā mahāvaktro dīrghadaṃṣṭro mahābalaḥ |
atanuścordhvakeśaśca pīḍāṃ haratu me tamaḥ || 8||
anekarūpavarṇaiśca śataśo'tha sahasraśaḥ |
utpātarūpo jagatāṃ pīḍāṃ haratu me śikhī || 9||
|| iti navagrahapīḍāharastotraṃ sampūrṇam ||
ਨੌਂ ਗ੍ਰਹਿਆਂ (ਨਵਗ੍ਰਹਿ) ਦੀ ਪੀੜਾ ਹਰਨ ਵਾਲੀ ਸਤੁਤੀ — ਸੂਰਜ, ਚੰਦਰਮਾ, ਮੰਗਲ, ਬੁਧ, ਬ੍ਰਿਹਸਪਤੀ, ਸ਼ੁਕਰ, ਸ਼ਨੀ, ਰਾਹੂ ਅਤੇ ਕੇਤੂ — ਜੋ ਲੋਕਾਂ ਦੇ ਰੱਖਿਅਕ ਸੂਰਜ ਤੋਂ ਸ਼ੁਰੂ ਹੁੰਦੀ ਹੈ, ਅਤੇ ਹਰ ਗ੍ਰਹਿ ਤੋਂ ਸ਼ਾਂਤੀ ਅਤੇ ਕਿਰਪਾ ਦੀ ਪ੍ਰਾਰਥਨਾ ਕਰਦੀ ਹੈ।
Want to understand every word?
Read Word-by-Word Meaning →